रुद्र विभूति स्तोत्रम

rudra-vibhuti-stotram

नमः शिवाय रुद्राय कद्रुद्राय प्रचेतसे ।
मीढुष्टमाय सर्वाय शिपिविष्टायरंहसे ॥ १॥

नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ।
नमः शिवाय रुद्राय शङ्कराय शिवाय ते ॥ २॥

उग्रोऽसि सर्वभूतानां नियन्तासि शिवोऽसि नः ।
नमः शिवाय शर्वाय शङ्करायार्तिहारिणे ॥ ३॥

ग्रहाधिपत्ये भगवानभ्यषिञ्चद्दिवाकरम् ।
वृक्षाणां ओषधीनां च सोमं ब्रह्मा प्रजापतिः ॥ ४॥

अपां च वरुणं देवं धनानां यक्षपुङ्गवम् ।
आदित्यानां तथा विष्णुं वसूनां पावकं तथा ॥ ५॥

प्रजापतीनां दक्षं च मरुतां शक्रमेव च ।
दैत्यानां दानवानां च प्रह्लादं दैत्यपुङ्गवम् ॥ ६॥

धर्मं पितॄणामधिपं निरृतिं पिशितासिनाम् ।
रुद्रं पशूनां भूतानां नन्दीनां गणनायकम् ॥ ७॥

वीराणां विरभद्रं च पिशाचानां भयङ्करम् ।
मातॄणां चैव चामुण्डां सर्वदेवनमस्कृताम् ॥ ८॥

रुद्राणां देवदेवेशं नीललोहितमीश्वरम् ।
विघ्नानां व्योमजं देवं गजास्यं तु विनायकम् ॥ ९॥

स्त्रीणां देवीं उमादेवीं वचसां च सरस्वतीम् ।
विष्णुं मायाविनां चैव स्वत्मानां जगतां तथा ॥ १०॥

हिमवन्तं गिरीणां तु नदीनां चैव जाह्नवीम् ।
समुद्राणां च सर्वेषामधिपं पयसां निधिम् ॥ ११॥

वृक्षाणां चैव चाश्वत्थं प्लक्षं च प्रपितामहः ॥ १२॥

गन्धर्वविद्याधरकिन्नराणामीशं पुनाश्चित्ररथं चकार ।
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमुग्रवीर्यम् ॥ १३॥

दिग्वारणानामधिपं चकार गजेन्द्रमैरावतमुग्रवीर्यम् ।
सुपर्णमीशं पततामथाश्वराजानामुच्छैःश्रवसं चकार ॥ १४॥

सिंहं मृगाणां वृषभं गावां च मृगाधिपानां शरभं चकार ।
सेनाधिपानां गुहमप्रमेयं श्रुतीस्मृतीनां लकुलीशमीशम् ॥ १५॥

अभ्यषिञ्चत्सुधर्माणं तथा शङ्खापदं दिशाम् ।
केतुमन्तं क्रमेणैव हेमरोमाणमेव च ॥ १६॥

पृथिव्यां पृथुमीशानं सर्वेषां तु महेश्वरम् ।
चतुर्मूर्तिषु सर्वज्ञं शङ्करं वृषभध्वजम् ॥ १७॥

twitter facebook telegram whatsapp